योग की महिमा संस्कृत में – योगी आदित्यनाथ के ब्लॉग से साभार

उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने योग की महिमा के बारे में बताते हुए संस्कृत में ब्लॉग लिखा है । पढ़िये योगी आदित्यनाथ का यह लेख जो हमने उनके ब्लॉग से साभार लिया है।

“न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्।”
अर्थात् योगाभ्यासेन तप्तं शरीरं रोगजरामृत्युभ्यः मुच्यते।  श्वेताश्वतरोपनिषद्-२/१२
अद्य पञ्चमोऽन्ताराष्ट्रियो योगदिवसो वर्तते। अस्माकं यशस्विनां प्रधानमन्त्रिणां श्रीमतां नरेन्द्रमोदिनां नेतृत्वे एनडीए इति सर्वकारस्य सत्प्रयासैः संयुक्तराष्ट्रसङ्घः दिसम्बरमासस्य ११ दिनाङ्के २०१४ ख्रीस्ताब्दे प्रस्तावमेकं स्वीकृत्य जूनमासस्य २१ दिनाङ्कस्य अन्ताराष्ट्रिययोगदिवसरूपेण घोषणाम् अकरोत्। भारतीयसंस्कृतेरमूल्यस्य न्यासस्य योगस्य अनेकेषां लाभानां विषये सम्पूर्णविश्वे जागरूकतायाः प्रसार एतस्य मुख्योद्देश्यम्।
योगः विश्वाय भारतस्य अद्भुतम् उपहार: यश्चाद्य वैश्विकान्दोलनरूपेण प्रसिद्धिं प्राप्तवान्। योगस्य शाब्दिकोऽर्थः संयोजनम्। योगेश्वरः भगवान् श्रीकृष्णः श्रीमद्भगवद्गीतायां षष्ठेऽध्याये प्रोवाच-
“तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्” 
अर्थात् यः दुःखसंयोगरहितः सः योगः। योगः शारीरिकः मानसिकः अध्यात्मिकश्चाभ्यासः यो शरीरेण सह आत्मानं युङ्क्त एकीकरोतीत्यर्थः। एतेन इन्द्रियप्राणमनोबुद्धयः नियम्यन्ते। वस्तुतः स्वस्थं शरीरं श्रेष्ठा मेधा चास्मान् श्रेष्ठनागरिकरूपेण परिष्कुरुतः।
योगसूत्रकार:  महर्षिः पतञ्जलिः अनेन प्रकारेण योगस्य व्याख्यां करोति “योगश्चित्तवृत्तिनिरोधः।”
अर्थात् चित्तवृत्तीनां निरोध एव योगः। अयं योगोऽस्माकं चित्ते विषयाणाम् उद्भवं रुणद्धि। एकतः योगोऽस्माकं देहं स्वस्थं करोति अपरतश्च मनः प्रसादयति। प्रातःस्मरणीयानां पूज्यानां गुरूणां गोरखनाथानां शब्दैरुच्यते चेत्-
“योगी योग कमावे, योग योग में रमझ अपेचीं, लख परमानन्द पावे।”
सम्पूर्णविश्वे अद्य योगः विभिन्नैः रूपैः प्रचलितो वर्तते। सामान्यतया प्राणायामाः आसनानि च योग इति उच्यन्ते किन्तु आसनप्रणायामौ तु विराटस्य योगस्य अङ्गद्वयमात्रमेव। अस्माकं शास्त्रेषु अष्टाङ्गयोगस्य अवधारणा वर्तते। तत्र यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधय इत्यष्टौ योगाङ्गानि। एतेषु यम इति योगस्य प्रथमं सोपानम्। अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहेति यमस्य पञ्च रूपाणि। योगस्य द्वितीयं सोपानं नियमः। शौच-सन्तोष-तप-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः। एवं प्रकारेण शौचम् अर्थात् स्वच्छता अपि योग एव। मान्यानां प्रधानमन्त्रिणां नेतृत्वे भारतसर्वकारेण स्वच्छभारताभियानस्य सङ्कल्पः अस्यां दिशि महत्त्वपूर्णः उपक्रमः।
अत: पञ्चमेऽन्ताराष्ट्रिये योगदिवसेऽद्य अहं निजप्रदेशवासिनां तत्रापि च सविशेषं बालमित्राणां युवमित्राणां च आह्वानं करोमि यद् वयं विश्वाय भारतेन प्रदत्तं योगं निजदिनचर्यायां जीवनशैल्यां च अभिन्नतया योजयामः। स्वीये ग्रामे, उपनगरे, नगरे वा यत्र-तत्र सर्वत्र निजैः मित्रैः परिजनैः सहाध्यायिभिश्च सह योगस्य अभ्यासम् आरभामहे। वयम् अहिंसा-सत्य-अस्तेय-ब्रह्मचर्यरूपेण यमान् अनुसरेम तथा च शौच-सन्तोष-तप-स्वाध्यायसदृशान् नियमान् पालयेम। स्वीये कार्यबहुले जीवने किञ्चित्कालं योगाय दद्याम। प्रतिदिनम् आसनानि प्राणायामान् च कुर्याम। अहं विश्वसिमि यद् योगः नूनमेव अस्माकं सर्वेषां जीवने नवीनाम् ऊर्जां नवस्फूर्तिं च सञ्चारयिष्यति।
नवं भारतं स्वस्थं भारतम्।
इसे भी पढ़ें :  COVID-19: Life in China during early outbreak and its aftermath